24 अपरं वयःप्राप्तो मूसा विश्वासात् फिरौणो दौहित्र इति नाम नाङ्गीचकार।
25 यतः स क्षणिकात् पापजसुखभोगाद् ईश्वरस्य प्रजाभिः सार्द्धं दुःखभोगं वव्रे।
26 तथा मिसरदेशीयनिधिभ्यः ख्रीष्टनिमित्तां निन्दां महतीं सम्पत्तिं मेने यतो हेतोः स पुरस्कारदानम् अपैक्षत।