10 ते त्वल्पदिनानि यावत् स्वमनोऽमतानुसारेण शास्तिं कृतवन्तः किन्त्वेषोऽस्माकं हिताय तस्य पवित्रताया अंशित्वाय चास्मान् शास्ति।
11 शास्तिश्च वर्त्तमानसमये केनापि नानन्दजनिका किन्तु शोकजनिकैव मन्यते तथापि ये तया विनीयन्ते तेभ्यः सा पश्चात् शान्तियुक्तं धर्म्मफलं ददाति।