14 अपरं य उच्चतमं स्वर्गं प्रविष्ट एतादृश एको व्यक्तिरर्थत ईश्वरस्य पुत्रो यीशुरस्माकं महायाजकोऽस्ति, अतो हेतो र्वयं धर्म्मप्रतिज्ञां दृढम् आलम्बामहै।
15 अस्माकं यो महायाजको ऽस्ति सोऽस्माकं दुःखै र्दुःखितो भवितुम् अशक्तो नहि किन्तु पापं विना सर्व्वविषये वयमिव परीक्षितः।