1 शालमस्य राजा सर्व्वोपरिस्थस्येश्वरस्य याजकश्च सन् यो नृपतीनां मारणात् प्रत्यागतम् इब्राहीमं साक्षात्कृत्याशिषं गदितवान्,
2 यस्मै चेब्राहीम् सर्व्वद्रव्याणां दशमांशं दत्तवान् स मल्कीषेदक् स्वनाम्नोऽर्थेन प्रथमतो धर्म्मराजः पश्चात् शालमस्य राजार्थतः शान्तिराजो भवति।
3 अपरं तस्य पिता माता वंशस्य निर्णय आयुष आरम्भो जीवनस्य शेषश्चैतेषाम् अभावो भवति, इत्थं स ईश्वरपुत्रस्य सदृशीकृतः, स त्वनन्तकालं यावद् याजकस्तिष्ठति।