23 ते च बहवो याजका अभवन् यतस्ते मृत्युना नित्यस्थायित्वात् निवारिताः,
24 किन्त्वसावनन्तकालं यावत् तिष्ठति तस्मात् तस्य याजकत्वं न परिवर्त्तनीयं।
25 ततो हेतो र्ये मानवास्तेनेश्वरस्य सन्निधिं गच्छन्ति तान् स शेषं यावत् परित्रातुं शक्नोति यतस्तेषां कृते प्रार्थनां कर्त्तुं स सततं जीवति।
26 अपरम् अस्माकं तादृशमहायाजकस्य प्रयोजनमासीद् यः पवित्रो ऽहिंसको निष्कलङ्कः पापिभ्यो भिन्नः स्वर्गादप्युच्चीकृतश्च स्यात्।
27 अपरं महायाजकानां यथा तथा तस्य प्रतिदिनं प्रथमं स्वपापानां कृते ततः परं लोकानां पापानां कृते बलिदानस्य प्रयोजनं नास्ति यत आत्मबलिदानं कृत्वा तद् एककृत्वस्तेन सम्पादितं।