6 किन्त्विदानीम् असौ तस्मात् श्रेष्ठं सेवकपदं प्राप्तवान् यतः स श्रेष्ठप्रतिज्ञाभिः स्थापितस्य श्रेष्ठनियमस्य मध्यस्थोऽभवत्।
7 स प्रथमो नियमो यदि निर्द्दोषोऽभविष्यत तर्हि द्वितीयस्य नियमस्य किमपि प्रयोजनं नाभविष्यत्।
8 किन्तु स दोषमारोपयन् तेभ्यः कथयति, यथा, "परमेश्वर इदं भाषते पश्य यस्मिन् समयेऽहम् इस्रायेलवंशेन यिहूदावंशेन च सार्द्धम् एकं नवीनं नियमं स्थिरीकरिष्याम्येतादृशः समय आयाति।
9 परमेश्वरोऽपरमपि कथयति तेषां पूर्व्वपुरुषाणां मिसरदेशाद् आनयनार्थं यस्मिन् दिनेऽहं तेषां करं धृत्वा तैः सह नियमं स्थिरीकृतवान् तद्दिनस्य नियमानुसारेण नहि यतस्तै र्मम नियमे लङ्घितेऽहं तान् प्रति चिन्तां नाकरवं।
10 किन्तु परमेश्वरः कथयति तद्दिनात् परमहं इस्रायेलवंशीयैः सार्द्धम् इमं नियमं स्थिरीकरिष्यामि, तेषां चित्ते मम विधीन् स्थापयिष्यामि तेषां हृत्पत्रे च तान् लेखिष्यामि, अपरमहं तेषाम् ईश्वरो भविष्यामि ते च मम लोका भविष्यन्ति।
11 अपरं त्वं परमेश्वरं जानीहीतिवाक्येन तेषामेकैको जनः स्वं स्वं समीपवासिनं भ्रातरञ्च पुन र्न शिक्षयिष्यति यत आक्षुद्रात् महान्तं यावत् सर्व्वे मां ज्ञास्यन्ति।
12 यतो हेतोरहं तेषाम् अधर्म्मान् क्षमिष्ये तेषां पापान्यपराधांश्च पुनः कदापि न स्मरिष्यामि।"
13 अनेन तं नियमं नूतनं गदित्वा स प्रथमं नियमं पुरातनीकृतवान्; यच्च पुरातनं जीर्णाञ्च जातं तस्य लोपो निकटो ऽभवत्।