24 अपरञ्च तस्य क्लेशकालस्याव्यवहिते परकाले भास्करः सान्धकारो भविष्यति तथैव चन्द्रश्चन्द्रिकां न दास्यति।
25 नभःस्थानि नक्षत्राणि पतिष्यन्ति, व्योममण्डलस्था ग्रहाश्च विचलिष्यन्ति।
26 तदानीं महापराक्रमेण महैश्वर्य्येण च मेघमारुह्य समायान्तं मानवसुतं मानवाः समीक्षिष्यन्ते।
27 अन्यच्च स निजदूतान् प्रहित्य नभोभूम्योः सीमां यावद् जगतश्चतुर्दिग्भ्यः स्वमनोनीतलोकान् संग्रहीष्यति।