3 तदानीं स दृष्टान्तैस्तान् इत्थं बहुश उपदिष्टवान्। पश्यत, कश्चित् कृषीवलो बीजानि वप्तुं बहिर्जगाम,
4 तस्य वपनकाले कतिपयबीजेषु मार्गपार्श्वे पतितेषु विहगास्तानि भक्षितवन्तः।
5 अपरं कतिपयबीजेषु स्तोकमृद्युक्तपाषाणे पतितेषु मृदल्पत्वात् तत्क्षणात् तान्यङ्कुरितानि,
6 किन्तु रवावुदिते दग्धानि तेषां मूलाप्रविष्टत्वात् शुष्कतां गतानि च।
7 अपरं कतिपयबीजेषु कण्टकानां मध्ये पतितेषु कण्टकान्येधित्वा तानि जग्रसुः।
8 अपरञ्च कतिपयबीजानि उर्व्वरायां पतितानि; तेषां मध्ये कानिचित् शतगुणानि कानिचित् षष्टिगुणानि कानिचित् त्रिंशगुंणानि फलानि फलितवन्ति।
9 श्रोतुं यस्य श्रुती आसाते स शृणुयात्।