3 ततो यीशुः प्रत्युवाच, यूयं परम्परागताचारेण कुत ईश्वराज्ञां लङ्वध्वे।
4 ईश्वर इत्याज्ञापयत्, त्वं निजपितरौ संमन्येथाः, येन च निजपितरौ निन्द्येते, स निश्चितं म्रियेत;
5 किन्तु यूयं वदथ, यः स्वजनकं स्वजननीं वा वाक्यमिदं वदति, युवां मत्तो यल्लभेथे, तत् न्यविद्यत,
6 स निजपितरौ पुन र्न संमंस्यते। इत्थं यूयं परम्परागतेन स्वेषामाचारेणेश्वरीयाज्ञां लुम्पथ।
7 रे कपटिनः सर्व्वे यिशयियो युष्मानधि भविष्यद्वचनान्येतानि सम्यग् उक्तवान्।
8 वदनै र्मनुजा एते समायान्ति मदन्तिकं। तथाधरै र्मदीयञ्च मानं कुर्व्वन्ति ते नराः।
9 किन्तु तेषां मनो मत्तो विदूरएव तिष्ठति। शिक्षयन्तो विधीन् न्राज्ञा भजन्ते मां मुधैव ते।