5 अनन्तरमन्यपारगमनकाले तस्य शिष्याः पूपमानेतुं विस्मृतवन्तः।
6 यीशुस्तानवादीत्, यूयं फिरूशिनां सिदूकिनाञ्च किण्वं प्रति सावधानाः सतर्काश्च भवत।
7 तेन ते परस्परं विविच्य कथयितुमारेभिरे, वयं पूपानानेतुं विस्मृतवन्त एतत्कारणाद् इति कथयति।
8 किन्तु यीशुस्तद्विज्ञाय तानवोचत्, हे स्तोकविश्वासिनो यूयं पूपानानयनमधि कुतः परस्परमेतद् विविंक्य?
9 युष्माभिः किमद्यापि न ज्ञायते? पञ्चभिः पूपैः पञ्चसहस्रपुरुषेषु भोजितेषु भक्ष्योच्छिष्टपूर्णान् कति डलकान् समगृह्लीतं;
10 तथा सप्तभिः पूपैश्चतुःसहस्रपुरुषेषु भेजितेषु कति डलकान् समगृह्लीत, तत् किं युष्माभिर्न स्मर्य्यते?
11 तस्मात् फिरूशिनां सिदूकिनाञ्च किण्वं प्रति सावधानास्तिष्ठत, कथामिमाम् अहं पूपानधि नाकथयं, एतद् यूयं कुतो न बुध्यध्वे?
12 तदानीं पूपकिण्वं प्रति सावधानास्तिष्ठतेति नोक्त्वा फिरूशिनां सिदूकिनाञ्च उपदेशं प्रति सावधानास्तिष्ठतेति कथितवान्, इति तैरबोधि।