9 अतएव यूयम ईदृक् प्रार्थयध्वं, हे अस्माकं स्वर्गस्थपितः, तव नाम पूज्यं भवतु।
10 तव राजत्वं भवतु; तवेच्छा स्वर्गे यथा तथैव मेदिन्यामपि सफला भवतु।
11 अस्माकं प्रयोजनीयम् आहारम् अद्य देहि।
12 वयं यथा निजापराधिनः क्षमामहे, तथैवास्माकम् अपराधान् क्षमस्व।
13 अस्मान् परीक्षां मानय, किन्तु पापात्मनो रक्ष; राजत्वं गौरवं पराक्रमः एते सर्व्वे सर्व्वदा तव; तथास्तु।