1 किंक्रीयानगरीयधर्म्मसमाजस्य परिचारिका या फैबीनामिकास्माकं धर्म्मभगिनी तस्याः कृतेऽहं युष्मान् निवेदयामि,
2 यूयं तां प्रभुमाश्रितां विज्ञाय तस्या आतिथ्यं पवित्रलोकार्हं कुरुध्वं, युष्मत्तस्तस्या य उपकारो भवितुं शक्नोति तं कुरुध्वं, यस्मात् तया बहूनां मम चोपकारः कृतः।