1 हे परदूषक मनुष्य यः कश्चन त्वं भवसि तवोत्तरदानाय पन्था नास्ति यतो यस्मात् कर्म्मणः परस्त्वया दूष्यते तस्मात् त्वमपि दूष्यसे, यतस्तं दूषयन्नपि त्वं तद्वद् आचरसि।
2 किन्त्वेतादृगाचारिभ्यो यं दण्डम् ईश्वरो निश्चिनोति स यथार्थ इति वयं जानीमः।
3 अतएव हे मानुष त्वं यादृगाचारिणो दूषयसि स्वयं यदि तादृगाचरसि तर्हि त्वम् ईश्वरदण्डात् पलायितुं शक्ष्यसीति किं बुध्यसे?