6 किन्तु स एकैकमनुजाय तत्कर्म्मानुसारेण प्रतिफलं दास्यति;
7 वस्तुतस्तु ये जना धैर्य्यं धृत्वा सत्कर्म्म कुर्व्वन्तो महिमा सत्कारोऽमरत्वञ्चैतानि मृगयन्ते तेभ्योऽनन्तायु र्दास्यति।
8 अपरं ये जनाः सत्यधर्म्मम् अगृहीत्वा विपरीतधर्म्मम् गृह्लन्ति तादृशा विरोधिजनाः कोपं क्रोधञ्च भोक्ष्यन्ते।