6 अस्मासु निरुपायेषु सत्सु ख्रीष्ट उपयुक्ते समये पापिनां निमित्तं स्वीयान् प्रणान् अत्यजत्।
7 हितकारिणो जनस्य कृते कोपि प्रणान् त्यक्तुं साहसं कर्त्तुं शक्नोति, किन्तु धार्म्मिकस्य कृते प्रायेण कोपि प्राणान् न त्यजति।
8 किन्त्वस्मासु पापिषु सत्स्वपि निमित्तमस्माकं ख्रीष्टः स्वप्राणान् त्यक्तवान्, तत ईश्वरोस्मान् प्रति निजं परमप्रेमाणं दर्शितवान्।
10 फलतो वयं यदा रिपव आस्म तदेश्वरस्य पुत्रस्य मरणेन तेन सार्द्धं यद्यस्माकं मेलनं जातं तर्हि मेलनप्राप्ताः सन्तोऽवश्यं तस्य जीवनेन रक्षां लप्स्यामहे।