36 किन्तु लिखितम् आस्ते, यथा, वयं तव निमित्तं स्मो मृत्युवक्त्रेऽखिलं दिनं। बलिर्देयो यथा मेषो वयं गण्यामहे तथा।
37 अपरं योऽस्मासु प्रीयते तेनैतासु विपत्सु वयं सम्यग् विजयामहे।
38 यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु
39 वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते।